Ticker

10/recent/ticker-posts

याज्ञवल्क्य शिक्षा । Yagyvalky Shikha

"याज्ञवल्क्य शिक्षा" प्रस्तावना 

           'अथ अतःत्रैस्वर्यलक्षणं व्याख्यास्यामः ( वयमिति )।'


   'व्याख्या-

अथ = गुरुपरम्पराया वेदाध्ययनस्यानुमतिप्राप्र्यनन्तरम् अत्र 'अथ' शब्दः सप्रयोजनीयः ऐतिहासिकश्च, वेद-वेदाङ्गेतिहासावलोकनेन ज्ञायते यदयं शब्दः ओङ्कारश्च साक्षात् ब्रह्मणो मुखात् कण्ठं भित्वा विनिर्गता वास्ताम् । इति स्मृति कोशेषु चोक्तमस्ति ।

books 📚

तथा हि- 'ओंकारश्चाथ शब्दश्च द्वावेतो ब्रह्मणः पुरा। कण्ठं भित्वा विनिर्यातो तेन माङ्गलिकावुभावि'ति । एतेनेदमपि सूच्यते यन्माङ्गलिकोऽयं शब्द: ग्रन्थकर्तुः मङ्गलाचरणमपि व्यनक्ति । यतो हि प्राचीनशिष्टाचारानुरोधात् निर्विघ्नग्रन्थसमाप्त्यर्थं मङ्गलाचरणमावश्यकं भवति । अन्यान्यपि कारणानि सन्ति तद्विमर्शेऽवलोकनीयम् । अतः= अस्मात् कारणात् । यतो हि वेद-वेदाङ्गयोरध्ययने स्वराणां समुचित विनियोग अस्य महती आवश्यकता भवति । पाणिनीय-शिक्षायाः हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह कथितमस्ति यत्-'मन्त्र स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्' । अनेन पाणिन्यनुशासनेन सुतरां सिद्धयति यत् स्वर-वर्णाभ्यां विरहितस्य मिथ्याप्रयुक्तस्य वा वेदस्य कर्मवैगुण्येन च विरुद्ध फलकथनेन वेद-वेदाङ्गयोः समुचित स्वर-वर्ण संस्कार विनियोग आवश्यक इति ।


तस्मात् त्रयाणाम् = उदात्तानुदात्तस्वरितानाम् (अन्तर्वत्तिविविध भेदसहितानाम् ), स्वराणां = और विशिष्ट वर्णानां समूहः त्रिस्वरी, त्रिस्वरी एव त्रैस्वर्यम्, त्रैस्वर्यस्य लक्षणम् = लक्ष्यसमुपेतं स्वरूपं तत् । व्याख्यास्यामः = सर्वतोभावेन व्याख्यानं करिष्यामः वर्णयिष्यामो वा ( वयमित्यत्राध्याहारः )। वयमिति पदेन सर्वनाम द्योतक महर्षेः योगिनो याज्ञवल्क्य कस्य ग्रहणं भवति । अत्रायमाशयो विद्यते यत्-वेद-विद्याग्रहणाय येषामुदात्तानुदात्तस्वरितानां स्वराणां समुचितोच्चारणे आवश्यकता भवति तानेव प्रथमं कथयिष्याम इति... ।'