"पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥"
भावार्थः
जगति जलम् अन्नम् एवं सुभाषितम् इत्येतानि त्रीणि रत्नानि विद्यन्ते । परन्तु शिलाखण्डाः एव रत्नानि इति मूर्खाः केवलं मन्यन्ते ।
પૃથ્વી પર જળ, અન્ન અને સુભાષિત - આ ત્રણ જ રત્નો છે. (પરંતુ) મૂર્ખ લોકો પથ્થરના ટુકડાને "રત્ન" નામથી ઓળખે છે.