निवास एवं व्यावसायिक वास्तु
Program report in sanskrit
01.02-2022तमे दिनाङ्के श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य IQAC, अनुस्नातकविभागः तथैव च विश्वविद्यालयसंलग्नः महाविद्यालयः इत्येतैः सम्भूय"निवास एवं व्यवसायिक वास्तु "विषयमाश्रित्य ऑनलाइन शॉर्ट टर्म सर्टिफिकेट प्रोग्राम इन ज्योतिष इत्यस्य कार्यक्रमस्य उद्घाटन सत्रस्य उद्घाटनसत्रं ०४:०० वादने समायोजितम्। सत्रेऽस्मिन् विश्वविद्यालयस्य मान्याः कुलपतिचरणाः डॉ. ललितकुमार पटेलमहाभागाः आध्यक्ष्यम् ऊढवन्तः। मुख्यातिथित्वेन समुपस्थिताः उत्तराखंडसंस्कृतविश्वविद्यालयस्य कुलपतय: प्रोफेसर देवीप्रसाद- त्रिपाठीमहोदया: सत्रारम्भे भाविनपंड्यामहोदयः मङ्गलाचरणम् अकरोत्। समागतानां महानुभावानां प्रतिभागिनां च स्वागतं प्रास्ताविकं च अकरोत् विश्वविद्यालयस्य ज्योतिषविभागस्य सहायकाचार्य:नित्यानंदओझा महोदय: | ततः सारस्वतातिथिभि: प्रो विनय कुमारपांडेयमहाभागैः स्वाभिः व्याख्यानै: समे अपि कृतार्थीकृताः। डॉ. ललित पटेलमहाभागः स्वीये अध्यक्षीये उद्बोधने समग्रमपि एनं यत्नं श्लाघितवान्, मार्गदर्शनं च कृतवान्। कार्यक्रमान्ते विश्वविद्यालयेन सञ्चालितमहाविद्यालयस्य ज्योतिषविभागस्य सहायकाचार्य: डा रमेशचन्द्रशुक्लमहोदय: सर्वान् प्रति कृतज्ञतामाविष्कृतवान्। उद्घाटन कार्यक्रमस्य समापनं कल्याणमन्त्रेण अभवत् | अस्य सत्रस्य सञ्चालनमकरोत् ज्योतिष विभागस्य सहायकाचार्या सुश्री अपूर्वा अग्रवालमहोदया |