Ticker

10/recent/ticker-posts

Panch prakalp yojana, sssu program

Panch prakalp yojana, sssu program     


 गुजरातसर्वकारद्वारा प्राप्तपत्रानुसारम् आजादी के अमृतमहोत्सव इत्युपलक्ष्य  पञ्चप्रकल्पयोजनान्तर्गते भ्रूणहत्यानिषेधः कुव्यसननिराकरणञ्च इत्यस्मिन् विषये एकः कार्यक्रमः ०९/०४/२०२२ तमे दिनाङ्के प्रातः १० वादने मोराजग्रामस्य सर्वकारीयविद्यालये अनुष्ठितः। कार्यक्रमेस्मिन् वक्त्र्यः आसन् – अधिवक्त्री मीताबेन कार्यामहोदया, अधिवक्त्री बकुलाबेन डाभीमहोदया च। एवञ्च विश्वविद्यालयतः षट् छात्राः पञ्चप्रकल्पयोजनायाः नोडल-अधिकारिण: प्रो. विनोद कुमार झामहोदयः, सहायकाधिकारिणौ डॉ॰ विपुलजादवमहोदया:, डॉ॰ विदुषी बोल्लामहोदया, संयोजिका च डॉ॰ आशाबेन माढकवर्या भागं गृहीतवन्तः। मुख्यवक्त्री मीताबेनमहोदया बालिकानां महिलानाञ्च विधिशास्त्रे के के अधिकाराः भवन्ति, कथं स्वात्मरक्षणं करणीयम्, विधिशास्त्रे भ्रूणहत्यायाः निषेधश्चेत्येतान् विषयान् सम्यक् अवबोधितवती। अनन्तरञ्च अधिवक्त्र्या बकुलाबेनवर्यया अपराधे प्रवृत्त- बालकानां कृतेऽपि विधिशास्त्रे दण्डव्यवस्थायाः प्रावधानं भवति, एवञ्च तेषां पृथक्तया कारागारस्य व्यवस्था भवति अत एव बालाः अपि सावधानाः भवेयुः इत्येते विषयाः सम्यक् उद्बोधिताः। ततः परं दहेजप्रथा इति विषयमधिकृत्य एकः लघुनाटकः विश्वविद्यालयस्य छात्राभिः प्रस्तुतः। अस्मिन् कार्यक्रमे ग्रामस्य मुख्यः भारतभाई वीरजीभाई राथोडमहोदयः, ग्राम्यजनाः छात्राश्च उपस्थिताः आसन्। व्याख्यानकार्यक्रमादनन्तरं प्रकृतविषयमाश्रित्य यात्रायाः अपि आयोजनम् आसीत्। यात्रायां छात्राः शिक्षकाः ग्राम्यजनाश्च भागं गृहीतवन्तः।