श्रीसोमनाथसंस्कृतविश्वविद्यालये सम्पन्ना व्याकरण-वेब्-सङ्गोष्ठी॥
१८.०१.२०२२तमे दिनाङ्के श्रीसोमनाथसंस्कृतवि- श्वविद्यालयस्य IQAC, अनुस्नातकविभागः तथैव च विश्वविद्यालयसंलग्नमहाविद्यालयः इत्येतैः सम्भूय ‘महाभाष्यस्य चतुर्थाह्निकप्रतिपाद्यविषयविमर्शः’ इत्यमुं विषयमाश्रित्य वेब्-सङ्गोष्ठी समायोजिता। सङोष्ठ्याः अस्याः उद्घाटनसत्रं प्रातः ११:०० वादने समायोजितम्। सत्रेऽस्मिन् विश्वविद्यालयस्य मान्याः कुलपतिचरणाः डॉ. ललितकुमार पटेलमहाभागाः आध्यक्ष्यम् ऊढवन्तः। मुख्यवक्तृत्वेन समुपस्थिताः आसन् केन्द्रीयसंस्कृतविश्वविद्यालयस्य जयपुरपरिसस्य व्याकरणविभागीया आचार्याः प्रो. श्रीधरमिश्रमहाभागाः। सत्रारम्भे श्रीभाविन पण्ड्या महोदयः मङ्गलाचरणम् अकरोत्। समागतानां महानुभावानां प्रतिभागिनां च स्वागतं प्रास्ताविकं च अकरोत् विश्वविद्यालयस्य व्याकरणविभागाध्यक्षः प्रो. विनोद कुमार झा महाभागः। ततः परं श्रीयोगेश पण्ड्या महोदयेन, डॉ. नरसिंह भोगायता महोदयेन, श्रीलोकेश कुमार महोदयेन च स्वीयानि शोधपत्राणि पठितानि। मुख्यवक्तृभिः प्रो. श्रीधरमिश्रमहाभागैः स्वाभिः विशिष्टटिप्पणीभिः समे अपि कृतार्थीकृताः। डॉ. ललित पटेल महाभागः स्वीये अध्यक्षीये उद्बोधने समग्रमपि एतं यत्नं श्लाघितवान्, मार्गदर्शनं च कृतवान्। कार्यक्रमान्ते विश्वविद्यालयसञ्चालितमहा - विद्यालयस्य प्राचार्याः प्रि. नरेन्द्रकुमार पण्ड्या महाभागाः सर्वान् प्रति कृतज्ञताम् अभिव्यक्तवन्तः। अस्य सत्रस्य सञ्चालनमकरोत् व्याकरणप्राध्यापकः डॉ. दीपेश कतिरा।मध्याह्नसत्रस्य आध्यक्ष्यम् ऊढवन्तः प्रो. विनोद कुमार झ। सत्रसञ्चालनं कृतवती विश्वविद्यालयस्य व्याकरण प्राध्यापिका डॉ. विदुषी बोल्ला महाभागा। सत्रेऽस्मिन् भारतस्य विभिन्नेभ्यः भागेभ्यः संयुक्ताः प्रायः त्रयोदश विद्वांसः स्वीयानि शोधपत्राणि पठितवन्तः। सत्रान्ते प्रो.विनोद कुमार झा महाभागः शोधपत्रप्रस्तोतॄन् उद्दिश्य विशिष्टं मार्गदर्शनं कृतवन्। सत्रान्ते डॉ. दीपेश विनोद कतिरा कृतज्ञताभिव्यक्तिं कृतवान्।