प्रगतभाषाशिक्षणवर्गस्य उद्घाटनम्
विश्वविद्यालयस्य छात्रेषु संस्कृतभाषायां लेखनक्षमताम् अथ च अभिव्यक्तिकौशलम् अभिवर्धयितुं “प्रगतभाषाशिक्षणवर्गः” इति प्रकल्पस्य आयोजनं विधीयते। ऐषमः एतस्य प्रकल्पस्य उद्घााटनं १८ जनवरी २०२२ तमे दिनाङ्के अपराह्णे चतुर्वादने प्रावर्तत। तत्र अध्यक्षरूपेण विश्वविद्यालयस्य कुलपतिवर्यः डॉ. ललितकुमारपटेलः उपातिष्ठत्। विश्वविद्यालयस्य प्राध्यापकाः छात्राश्चापि अत्र उपस्थिताः आसन् ।कार्यक्रमस्य आरम्भे श्रीभाविनपण्ड्यावर्येण सुमधुरया वाचा मङ्गलमाचरितम्। तदनु कार्यक्रमसंयोजकेन डॉ. जानकीशरण-आचार्येण उपस्थितानां महानुभावानां शाब्दिकं स्वागतम् अकारि। अस्य वर्गस्य प्रास्ताविकं प्रस्तुवता प्राचार्येण डॉ. नरेन्द्रकुमारपण्ड्यावर्येण उक्तं संस्कृतभाषायां छात्राणां गतिः प्रगतिः उन्नतिः च स्यात् तदर्थं तेभ्यः प्रगतभाषाशिक्षणवर्गः प्रचाल्यते। पाठ्यक्रमसमित्या सम्यक् चिन्तयित्वा अस्य वर्गस्य पाठ्यक्रमः रचितः वर्तते। “काव्यं कोषः कौमुदी” इति ककारत्रयोपेतं साहित्यं भाषायाः शुद्ध्यर्थं नितान्तम् अपेक्षितं वर्तते। आध्यक्षीये उद्बोधने कुलपतिः डॉ. ललितकुमार पटेलः अवादीत् यत् विश्वविद्यालये शास्त्रिस्तरात् आरभ्य आचार्यपर्यन्तं परीक्षायां लेखनं संस्कृतमाध्यमेन भवति। छात्राः स्वस्वशास्त्राणाम् अध्ययनं तु कुर्वन्ति एव, परं तैः अतिरिक्तरूपेण भाषायां प्रावीण्यम् अवश्यं सम्पादनीयम् अतः एतेभ्यः छात्रेभ्यः एषः प्रगतभाषाशिक्षणवर्गः अवश्यम् उपादेयः भविष्यति। कार्यक्रमान्ते श्रीजिगरभट्टः धन्यतावचांसि अवादीत्। एतस्य कार्यक्रमस्य सञ्चालनं संयोजनं च दर्शनविभागस्य प्राध्यापकः डॉ. जानकीशरणः आचार्यः अकरोत्।