18 पुराण, ब्रह्म सूत्र, एवं सभी वेदों के विभाजन कर्ता महर्षि वेदव्यास माने जाते हैं। वह कृष्ण द्वैपायन के नाम से भी जाने जाते हैं। वेदव्यास माता l सत्यवती एवं महर्षि पराशर के पुत्र थे। और यह महर्षि द्वापर युग में हुए थे।
ऊर्ध्वबाहुर्विरौम्येष न च कश्चित् शृणोति मे।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥
महाभारतम् - ८.५.७५
अष्टादशपुराणानां, ब्रह्मसूत्राणां महाभारतस्य च प्रणेता, चतुर्णां वेदानां विभाजनकर्ता च महर्षिः वेदव्यासः मन्यते । कृष्णद्वैपायनः इत्यपि अस्य अपरं नाम वर्तते। वेदव्यासः मातुः सत्यवत्याः ऋषेः पराशरस्य च पुत्रः अस्ति । अयं महर्षिः द्वापरयुगे जातः । परम्परया एषः सप्तसु चिरजीविषु परिगण्यते। एषः महर्षिः एकस्य अखण्डस्य वेदस्य त्रिधा विभाजनं कृत्वा प्रसिद्धः। श्रीव्यासेन प्रणीतं महाभारतम् अद्यावधि विश्वे विरचितेषु काव्येषु विस्तृततमम् । अत्र उत्कृष्टजीवनाय आवश्यकानि सर्वाणि अपि तत्त्वानि उपलभ्यन्ते । तस्मादेव भारतं पञ्चमो वेदः' इति सूक्तिः प्रसिद्धा । तेन प्रणीतेषु अष्टादशपुराणेषु इतिहासः, भूगोलः, रसायनविद्या, शस्त्रविद्या, व्याकरणम्, दर्शनम्, अर्थशास्त्रम् इत्यादयः सर्वेऽपि जीवनोपयोगिनः विषयाः अन्तर्भवन्ति। तस्मादेव 'व्यासोच्छिष्टं जगत् सर्वम्' इति सूक्तिः महर्षेः व्यासस्य कृते प्रसिद्धा। नैके विद्वांसः मन्यन्ते यत् श्रीव्यासः कश्चित् एकः जनः न, अपितु कश्चन समुदायः आसीत्। यस्मिन् पीठे उपविश्य गुरुः ज्ञानम् उपदिशति तत् ‘व्यासपीठम्' इति उच्यते। भारते श्रावणपूर्णिमा 'व्यासपूर्णिमात्वेन' अद्यापि सर्वत्र निर्वर्त्यते।
https://orcid.org/0009-0007-7473-5279
