Disabilities' Important information.
"दिव्यांग जनानां हितैषिता"
श्री सोमनाथ संस्कृत युनिवर्सिटी द्वारा निरंतर विद्यार्थियों के विकास के लिए कार्यक्रम का आयोजन किया जाता है । और विशेष दिन के निमित्त लोग उपयोगी कार्यक्रम किया जाता है । दिनांक ९ /०२ /२०२२ को श्री सोमनाथ संस्कृत विश्वविद्यालय द्वारा दिव्यांग लोगों के हित के लिए " दिव्यांग जनानां हितैषिता" विषय पर एक विशिष्ट व्याख्यान का आयोजन किया गया। इस व्याख्यान कार्यक्रम में मुख्य अतिथि के रूप में उपस्थित थे जगद्गुरु ज रामभद्राचार्य दिव्यांग विश्वविद्यालय के कुलपति प्रोफेसर योगेश चंद्र दुबे महोदय । संपूर्ण कार्यक्रम की जानकारी यहां पर नीचे दी गई है।
Report in Sanskrit
09.02.2022तमे दिनाङ्के श्रीसोमनाथसंस्कृतविश्वविद्यालस्यदिव्यांगसमितिद्वारा " दिव्यांग जनानां हितैषिता" विषयमाश्रित्य व्याख्यानं ०४:०० वादने समायोजितम्। कार्यक्रमेऽस्मिन् विश्वविद्यालयस्य मान्याः कुलपतिचरणाः डॉ. ललितकुमार पटेलमहाभागाः आध्यक्ष्यम् ऊढवन्तः। मुख्यातिथित्वेन समुपस्थिताः जगद्गुरु रामभद्राचार्य- दिव्यांगविश्वविद्यालयस्य कुलपतय: प्रोफेसर योगेशचन्द्रदुबेमहोदया: , प्रो पांडेयमहाभागैः स्वाभिः व्याख्यानै: समे अपि कृतार्थीकृताः। सत्रारम्भे भाविनपंड्यामहोदयः मङ्गलाचरणम् अकरोत्। समागतानां महानुभावानां प्रतिभागिनां च स्वागतं अकरोत् विश्वविद्यालयद्वारा संचालित- महाविद्यालयस्य प्राचार्य: डा नरेंद्र कुमारपण्ड्यामहोदय: | ततः डॉ. ललित पटेलमहाभागः स्वीये अध्यक्षीये उद्बोधने समग्रमपि एनं यत्नं श्लाघितवान्, मार्गदर्शनं च कृतवान्। कार्यक्रमान्ते विश्वविद्यालयस्य ज्योतिषविभागस्य सहायकाचार्य: नित्यानंद: ओझा सर्वान् प्रति कृतज्ञतामाविष्कृतवान्। उद्घाटन कार्यक्रमस्य समापनं कल्याणमन्त्रेण अभवत् | अस्य सत्रस्य सञ्चालनमकरोत् व्याकरणविभागस्य सहायिकाचार्या डा विदुषी बोल्लामहोदया |