Ticker

10/recent/ticker-posts

महान रसायन वैज्ञानिक आचार्य नागार्जुन का परिचय

 महान् रसायनवैज्ञानिकः "आचार्य: नागार्जुनः"

    आचार्य: नागार्जुनः महान् रसायनवैज्ञानिकः आसीत् । इतिहासविद तस्य जीवनकालस्य विषये किमपि निश्चप्रचं वक्तुं समर्थाः न सन्ति । तेन प्रणीतः 'रसरत्नाकरः' नामा ग्रन्थः ख्रिस्ताब्दस्य अष्टमशताब्दे विरचितः इति भाति । इतरेषु ग्रन्थेषु उपलभ्यमानानाम् उल्लेखानाम् आधारेण सः ख्रिस्ताब्दस्य द्वितीये शताब्दे जातः इति भाति । सः गुजरातराज्यस्य  प्रभासक्षेत्रे देहकदुर्गः इत्याख्ये नगरे निवसति स्म। एवं श्रूयते यत् एषः नालन्दाविद्यालये गहनम् अध्ययनं कृत्वा तस्य विद्यालयस्य कुलपतिः अभवत् ।

  • आचार्यनागार्जुनस्य कृतयः

    तेन सुश्रुतसंहितायाः सम्पादनं कृत्वा तत्र 'उत्तरतन्त्रम्' इति विनूतनः अध्यायः योजितः । तेन कक्षपुत्रतन्त्रम्, आरोग्यमञ्जरी, योगसागरः इत्यादयः ग्रन्थाः विरचिताः। रसरत्नाकरे तेन वर्णिताः प्रक्रिया: अद्यापि वैज्ञानिकान् विस्मयान्वितान् कुर्वन्ति । ग्रन्थेऽस्मिन् आचार्येण नागार्जुनेन विभिन्नधातूनां मिश्रणस्य, पारद-शोधनस्य, कृत्रिमसुवर्णनिर्माणस्य च प्रक्रियाः विशदतया वर्णिताः सन्ति।

    नागार्जुन महान रसायन विज्ञान वैज्ञानिक थे। इतिहासकार भी उनके जीवन के विषय में कुछ भी कहने में असमर्थ है । उनके द्वारा रचित रसरत्नाकर नाम के ग्रंथ से थोड़ी जानकारी मिलती है कि वह इषु पूर्वे द्वितीय शताब्दी में हुए होंगे ।और उनके निवास के विषय में अन्य ग्रंथों के आधार पर यह जानकारी प्राप्त होती है कि वह गुजरात राज्य के प्रभाेष क्षेत्र में देहकदुर्ग नाम के गांव में निवास करते थे । उन्होंने नालंदा विद्यालय में गहन अध्ययन कीया और  वहां पर कुलपति पद पर विराजमान रहे थे ।


NAGARJUN