Sahitya Vishayak Rastriy Webinar
श्रीसोमनाथसंस्कृतविश्वविद्यालय:, वेरावलम् , IQAC , अनुस्नातकसाहित्यविभाग:, महाविद्यालय-साहित्यविभाग:, इत्येतेषां संयुक्तोपक्रमेण महामहोपाध्याय-पंडित-रेवाप्रसादद्विवेदिन: संस्कृतसाहित्ये योगदानम्* इति विषयमादाय एकदिवसीया आभासीया संगोष्ठी आयोजिताऽसीत्।
एतस्यां संगोष्ठ्याम् उद्घाटनसत्रे अध्यक्षत्वेन श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य माननीय: प्रभारी कुलपति: डॉ. ललितकुमार: पटेल: मुख्यातिथित्वेन पण्डितरेवाप्रसादात्मज: प्रो. सदाशिवकुमार: द्विवेदी महोदय:, सारस्वतातिथित्वेन प्रो. मयूरीबेन भाटीया, गुजरात युनिवर्सिटी , विश्वविद्यालय-सञ्चालितस्य महाविद्यालयस्य प्राचार्य: प्रि. डॉ. नरेन्द्रकुमार: पण्ड्या महोदय:, अमेरिकात: विशेषतया उपस्थित: पण्डितरेवाप्रसादात्मज: डॉ.सर्वज्ञद्विवेदी महोदय:, विश्वविद्यालयस्य अध्यापका:, शोधच्छात्रा:, छात्राश्च उपस्थिता: आसन्। कार्यक्रमस्य आरम्भे श्रीमान् भाविन: पण्ड्या मङ्गलाचरणम् अकरोत्। ततश्च प्राचार्य: डॉ. नरेन्द्रकुमार: पण्ड्या महोदय: उपस्थितानां सर्वेषां स्वागतं व्याहृत्य , कार्यक्रमस्यास्य प्रास्ताविकं प्राचीकटत्। प्रथमं शोधपत्रम् डॉ. शोभा मिश्र महोदया प्रास्तावीत्। सा महामहोपाध्यायानां पण्डितरेवाप्रसादद्विवेदिनां वाङ्मयस्य परिचयं विस्तरेण अदात्। द्वितीयं शोधपत्रं डॉ. जिगरभट्ट: प्रास्तावीत्। तेन पण्डितप्रवराणां काव्यालंकारकारिकानुसारं सम्प्रदायविमर्श: अक्रियत।सारस्वतातिथिना प्रो. मयूरीबेन भाटीया महोदयया सीताचरितमधिकृत्य उद्बोधनम् अकारि। मुख्यवक्त्रा आचार्यात्मजेन प्रो. सदाशिवकुमारद्विवेदिना पितृचरणानां वाङ्मयस्य पुण्यं स्मरणं कृत्वा, गृहस्थधर्मस्य साधु निरूपणम् अक्रियत। पितृचरणानां साहित्यशेवधि: भृशं स्मृत:, श्रोतारश्च श्रवणसुभगभाषणेन श्रुतश्रोतव्या: अभवन्। विश्वविद्यालयस्य वेदविभागाध्यक्ष: डॉ. शत्रुघ्न: पाणिग्राही महोदय: उपस्थितानां सर्वेषां कृते कृतज्ञताकुसुमानि समर्पितवान्। पूर्णतामन्त्रेण उद्घाटनसत्रस्य समापनम् अभवत्। उद्घाटनसत्रस्य संचालनं साहित्यविभागस्य सहायकाचार्य: डॉ. डी.एम.मोकरीया महोदय: अकरोत्।
द्वितीयं सत्रम्
एतस्या: सङ्गोष्ठ्या: द्वितीयं सत्रं मध्याह्ने द्विवादनात् प्रावर्तत। सत्रस्यास्य अध्यक्ष: महाविद्यालयय प्राचार्य: प्रि. डॉ. नरेन्द्रकुमार: पण्ड्या महोदय: आसीत्। सत्रारम्भे सञ्चालकेन डॉ. जिगरभट्टेन अध्यक्षवर्यस्य उपस्थितानां संशोधकानां च स्वागतम् अक्रियत। तत: क्रमेण शोधपत्राणि प्रस्तुतानि। शोधपत्रप्रस्तुते: अनन्तरम् अध्यक्ष: प्रि. डॉ. नरेन्द्रकुमार: पण्ड्या महोदय: आध्यक्षीयम् उद्बोधनम् अकरोत्। तेन महामहोपाध्यायानां रेवाप्रसादवर्याणां रचनानां , विशेषत: काव्यालंकारकारिकाया: वैशिष्ट्यं प्रत्यपादयत्। अन्ते संचालकेन कृतज्ञताज्ञापनं कृत्वा पूर्णतामन्त्रेण सत्रसमापनम् अक्रियत। संगोष्ठ्या: लाईव प्रसारणं फेसबुक माध्यमेन कृतम्। तेन बहव: सामाजिका: संगोष्ठ्या लाभान्विता: अभवन्। अस्यां संगोष्ठ्याम् ७० प्रतिभागिन: पंजीकरणम् अकुर्वन् , तेषु २० संशोधकै: शोधपत्राणि प्रस्तुतानि। एवं सफलतापूर्वकम् एषा संगोष्ठी समजायत। अस्या: संगोष्ठ्या: संयोजकत्वेन डॉ.डी.एम.मोकरीया, डॉ. जिगरभट्ट:, डॉ. प्रियंका द्विवेदी च कार्यम् अकुर्वन्। अनेन कार्यक्रमेण सारस्वतै: शब्दपुष्पै: महामहोपाध्यायेभ्य: पण्डितप्रवरेभ्य: रेवाप्रसादद्विवेदिभ्य: श्रद्धांजलि: समर्पित:। विश्वविद्यालय: एतस्य कार्यक्रमस्य साफल्याय सर्वेभ्य: धन्यवादान् प्रकटयति।