Ticker

10/recent/ticker-posts

Ayurveda in Sanskrit || आयुर्वेदस्य परिचयः

 

आयुर्वेदस्य परिचयः

                                                                                                  

 

    स्वास्थ्यरक्षणे आयुर्वेदस्य प्राधान्यमभिलक्ष्य आयुर्वेदः अथर्ववेदस्य उपवेदत्वेन ख्यातः अस्ति । मतमिदं चरकसुश्रुतवाग्भटादिभिः प्रमुखायुर्वेदाचार्यैरेव प्रकाशितम् । व्याख्यानकारः चक्रपाणिरपि एवं वदति -


 

आयुर्वेदस्य आयुर्वेदत्वमुक्तं भवति, अथर्ववेदैकशेष एव आयुर्वेदः’ इति।

आयुरस्मिन् विद्यते अनेन वा आयुर्विन्दतीत्यायुर्वेद:। (च.सू. १/१३)

’भावप्रकाश’ - टीकाकारोपि ’आयुर्वेद’ शब्दम् एवं विशदीकरोति -

अनेन पुरुषो यस्माद् आयुर्विन्दति वेत्ति च ।

तस्मान्मुनिवरेरेष ’आयुर्वेद’ इति स्मृतः ॥

इतिहासः

आयुर्वेदस्य इतिहासः वैदिककालादेव आरभ्यते। अतः पश्चात्सहस्रवर्षेभ्योऽपि प्राचीनोऽयं इतिहासः। विशेषतः क्रिस्तपूर्वचतुर्थशतकादारभ्य क्रिस्तशकस्य ११ शतकपर्यन्तम् आयुर्वेदस्य उत्कृष्टपरम्पराः न केवलं प्रचारे आसन् अपि तु तत्कालीनेषु प्रख्यातेषु नालन्दा, विक्रमशीला, वलभी इत्यादिषु विश्वविद्यालयेषु प्रमुखविषयत्वेन पाठ्यन्ते स्म। भारतीयेः सह विदेशीयच्छात्रा अपि अस्य प्रयोजनं प्राप्तवन्त आसन्।

आयुर्वेदस्यावश्यकता महत्त्वञ्च

अनादिकालात् आयुर्वेदस्य शाश्वतधारा प्रवाहिता वर्तते। सततंः समयानुरूपं नवीन स्तोत्राणां स्वीकृत्या उपबृंहणम् अभवत्।

मूलस्तोत्राणाम् अन्वेषणं कृत्वा विश्लेषणेन वैचारिकविकासक्रमस्य श्रृंखलाबद्धम् उद्घाटनम् इतिहासस्य प्रमुखकार्यं वर्तते।

इतिहास: पुरातनघटनाया: एक: प्रामाणिक: अभिलेखः विद्यते।

"इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्।"

आयुर्वेदेतिहासे वैदिककालात् आरभ्य आधुनिककालपर्यन्तं विद्यमान-परिस्थितेः संपूर्णं विवेचनं प्राप्यते। तद्यथा - स्वास्थ्यसम्बधित- विवरणं, कालक्रमानुसारं नूतना औषधयःनूतना चिकित्सापद्धति इत्यादीनां विवरणं प्राप्यते।

आयुर्वेदस्य शैक्षणिकचिकित्सासम्बद्धि - ग्रन्थाः तस्य लेखका: तथा च तेषां योगदानादीनां ज्ञानम् आयुर्वेदेतिहासे ज्ञातुं शक्यते।

आयुर्वेदविषये शैक्षणिक-चिकित्सकीय-अनुसंधानक्षेत्रेषु जायमान-विकासेषु पूर्वघटित-शासकीय योजनादीनां विज्ञप्तिः आयुर्वेदितिहासे प्राप्यते।

इतिहासद्वारा लिखित-घटनादिभिः भविष्यवर्तमानकालयो: स्वीकरणीयतथ्यानां मूलाधारत्वं वर्तते। आयुर्वेदस्यावतरणम्

महर्षि-चरकः आयुर्वेदं शाश्वतं कथयति। यतः आयुः अर्थात् जीवनस्य प्रारम्भः भवति तथा च यतः जीवस्य अस्तित्त्वस्य ज्ञानं प्राप्यते तस्मात् कालात् एव आयुर्वेदस्य सत्तायाः प्रारम्भ भवति।

·      आयुर्वेदस्य विभागाः

क्रमांक

तन्त्र

आधुनिक चिकित्सा का निकटतम विभाग

1

शल्यतन्त्रम्

शल्यक्रिया

2

शालाक्यतन्त्रम्

कर्णनासाकण्ठस्य विज्ञानम्

3

कायचिकित्सा

सामान्य रोगाणां चिकित्सा

4

भूतविद्या तन्त्रम्

मनश्चिकित्सा

5

कौमारभृत्यः

बालचिकित्सा

6

अगदतन्त्रम्

विषविज्ञानम्

7

रसायनतन्त्रम्

जराविद्या एवं जराचिकित्सा

8

वाजीकरणतन्त्रम्

पौरुषीकरण एवं कामोद्दीपकश्च विज्ञानम्

 

कृत्स्नोऽपि आयुर्वेदः अष्टधा विभक्तः। शल्य-शालाक्य-कायचिकित्सा-कौमारभृत्य-अगदतन्त्र-रसायनतन्त्र-वाजीकरणानीति। इदानीं प्रत्येकमङ्गं विवेचयामः।

·      शल्यतन्त्रम् (Surgery and Midwifery)

तन्त्रमिदं पाश्चात्यचिकित्सायां Surgery and Midwifery पदेन व्यपदिश्यते। मूत्रपुरीषयोः निरोधे चर्मशलाकया लोहशलाकया वा शल्यक्रिया, गण्डमालाभेषज्यप्रसङ्गे, दुष्करप्रसवप्रसङ्गेषु च क्रियमाणाः प्रभूताः शल्यक्रियाः (शस्त्रक्रिया) सुश्रुतसंहितायाम् उल्लिखिताः सन्ति।

·      शालाक्यतन्त्रम् (Opthamology including ENT and Dentistry)

ग्रीवायाः उपरिभागस्य आन्तरिकचिकित्सा शालाक्यान्तर्भूता। चक्षुर्नासागलश्रोत्रमुखसम्बन्धिरोगोणां निवारणोपायाः भृशं वर्णितः। शिरोरोगकेशरोगाणां निवृत्तौ नानाविधोपचाराः समुपलभ्यन्ते। केशवर्धनं, तेषां कृष्णत्वं सौन्दर्यं च, खल्वाटानां चिकित्सनमपि सौषधनिर्देशनम् उपदिष्टम्।

·      कायचिकित्सा (General Medicine)

विविधशारीरकरोगाणां लक्षण-निदान-परिहारोपायाः विभागेऽस्मिन् विशदीकृताः। कायचिकित्सान्तर्गताः शरीरोदररोगाः ज्वरयक्ष्मपक्षाघातस्रावजलोदरोदरशूल-वातपित्तकफादयो नैकविधाः। अन्यदपि हृद्रोगपाण्डु-उदरशूल-तृषितत्वादिनां रोगाणां भैषज्यं कायचिकित्साविभागे वर्णितमस्ति। कायशब्दस्य अर्थ: अग्नि: । अग्निविकृतिजन्यानां रोगाणां चिन्तनम् अस्मिन् अङ्गे भवति । (सन्दर्भ: - सुश्रुतसंहिता, सूत्रस्थान १.७ - डह्लणटीका )

·      भूतविद्या (Psycho-therapy)

मानसरोगविज्ञानम् अपरं नाम अस्याः चिकित्सायाः। मनसि राजसतामसगुणेषु आवृतेषु सत्सु उन्माद-अपस्मार-अतत्त्वाभिनिवेशः इत्यादिरोगाः भवन्ति। सुप्तसम्मोहनादिविधानेन एषां रोगाणां चिकित्सा भवितुमर्हति। तथैव यक्षपिशाचासुरनागादिदुष्टसमाविष्ट-चित्तानां च व्यक्तीनां चिकित्सा भूतविद्यया भवति। विविधयन्त्रमन्त्रमणीनां प्रयोगः अत्र कार्यः भवति।

·      अगदतन्त्रम् (Toxicology)

अगदतन्त्रं नाम सर्पकीटलूतामूषकादिदष्टविषव्यञ्जनार्थं विविधविषसंयोगोपशमनार्थं च।।

सर्प, कीट, मूषक, आदि दंष्ट्रा विष विविध संयोगज विषो का एवं उनके उपशमन के लिए जिस शास्त्र मे विस्तृत विवरण मिलता है उसे अगदतन्त्र कहते हैं ।

·      अगदो विष प्रतिकार, तदर्थ तन्त्र अगदतन्त्रम् । (डल्हण)

 जिस शास्त्र मे बहुत से अगदों (विषघ्न योगों) के द्वारा विभिन्न विषों के निराकरण का वर्णन हो उसे अगदतन्त्र कहते हैं।

·      रसायनतन्त्रम् (Rejuvenation and Geriatrics)

रसायनं च तज्ज्ञेयं यज्जराव्याधिनाशम्

यथाऽमृता रुदन्ती च गुग्गुलुश्च हरीतकी॥ शा. पू. खं - ४ - १४

भावार्थ :- यदौषधं शरीरस्य जरां रोगं च नाशयति तत् रसायनम् इति उच्यते।

·      वाजीकरणम् (Virilification, Science of Aphrodisiac and Sexology)

संस्कृते वाजी (वाजिन्) इत्यस्य अर्थः अश्वः । अश्वः यौनशक्तेः कार्यप्रदर्शनस्य च प्रतीकत्वेन प्रसिद्धः अस्ति एवं वाजिकरणस्य अर्थः अश्वस्य ओजः विशेषतः व्यक्तेः यौनक्रियायाः महतीं क्षमतां जनयितुं भवतिवाजिकरणं सम्यक् कामोद्दीपकं नास्ति किन्तु वर्तमानकाले स्याभिप्रायार्थः समानः एव। वाजीकरणं आयुर्वेदस्य विशेषशाखा अस्ति या प्रजननतन्त्रस्य उन्नतिं करोति, यौनकार्यं च वर्धयति इति वक्तुं शक्यते । अस्मिन् कामशक्तिं, पौरुषं, सन्तानस्य स्वास्थ्यरक्षणं च वर्धनाय विभिन्नाः विषयाः वर्णिताः सन्ति

 

  •       त्रिदोषाः

आयुर्वेदे त्रयः दोषाः सन्ति ।

एते वातः पित्तः कफः इति।

·   वातदोषः

गतिगन्धोपादानार्थस्य वा धातो: त प्रत्यये वात इति रूपम्। (च.शा.७/१५)

शरीरस्य सर्वेषां गतिविधिनां कारणभूतः अयं वायुदोष: वर्तते। अस्य दोषस्य शरीरे विशेष महत्त्वम् अस्ति। अमरसिंह: स्वस्मिन् अमरकोशग्रन्थे अपि यत् प्रतिपादयति। वायो: पर्यायाः यथा-मारुतः, मरुत्, समीरः, श्वसन्, स्पर्शन्,सदागतिः,गन्धवाहः, अनिलः, पवनः, जगत्प्राणः, समीरणः, इत्यादयः।

व्युत्पत्ति:

"वा" धातुः गतिसूचकः। अनेन सह उत्साहस्य सम्बन्धः अस्ति यत् अत्र निरुक्त्या स्पष्टः कृतः।

निरुक्ति: "वा गति गन्धनयोः" सु.सूत्र २१/५

वायो: कार्याणि

उत्साहोच्छवासनि : श्वासचेष्टा धातुगति समा।

समोमोक्षो गतिमतां वायो: कर्मविकारजम्॥ (च.सू.१८/४९)

वायुदोषस्य कार्याणि यथा, कार्य कर्तुम् उत्साहः अर्थात् मानसिक-क्रियाशीलता, श्वासोच्छश्वासक्रिया, शारीरिक-मानसिकचेष्टा: यथा-वाचनम्, उपवेशनम्, उत्त्थापनम् इत्यादयः, रसादीनां धातूनां साम्यतारक्षणम्, मलमूत्रादीनां वेगस्य सम्यक् निर्हरणं च वायो: कर्माणि सन्ति।

 

 

·   पित्तदोषः

पृथिव्यां स्थितानाम् अन्नजलाद्याहाराणां सेवनानन्तरम् एतान् विजातीयतत्त्वान् शरीरसात्म्यभावे रूपान्तरयितुं पाचनक्रिया अत्यावश्यकी वर्तते। शरीरे पाचनं, परिणमनं च पित्तदोषद्वारा एव शक्यते।

व्युत्पत्ति:

"तप" सन्तापे" (सु.सू. २१/५)

आचार्य सुश्रुतेन पित्तशब्दस्य व्युत्पतिः "तप" सन्तापे इति कृतास्ति। सन्तापः तप धातोः "मयूरव्यंसकादयश्च" इति सूत्रेण इच्प्रत्ययेन एवं वर्णविपर्ययेन, तकारस्य द्वित्वेन चं पित्त शब्दः उत्पद्यते। पित्तं नपुंसकलिङ्गे अपि + द+ क्तः, त आदेशे अल्लोपे न दीर्घः देहस्थे धातुभेदे। तप इत्यस्य अर्थः उष्णिमा वा दहनम् इत्यस्य संदर्भे वर्तते। "तप दाहे", "तप ऐश्वर्ये" आदिषु अर्थेषु पित्तद्वारा अग्निसत्तायाः स्वीकरणं दर्शितमस्ति।

निरुक्ति:

"तापयतीति पित्तम्"

अर्थात् यत् शरीरे तापम् उत्पादयति तद् पित्तम्। अतः पित्तस्य पर्यायनामानि वैश्वानरः, वह्निः, अग्निः, पावकः, अनलः चादयः सन्ति।

पित्तस्य कार्यम्

पित्तं पक्त्युष्मदर्शनैः। 

पक्तेः अर्थः पचनम् अथवा परिणमनम्। सर्वेषु कार्येषु पचनं भूत्वा पृथिव्यां व्याप्तानां बाह्यपदार्थानां घटकेषु परिणमनम् भवति। यथा बाह्यग्निः पदार्थान् दाहयति पाचयति, अर्थात् विघटनं विश्लेषणं च कृत्वा अन्य स्वरूपं प्रददाति। तस्य पाकं करोति, तथैव पित्तमपि खादिताहारं द्वितीयं स्वरूपम् ददाति। तेन धातुः तदुपयोगं कृत्वा पुष्टः भवति। शरीरे पित्ताग्निः सूर्यसमानः प्रतिनिधिः वर्तते।

पित्तदोषस्य प्रकारा:

पाचकं भ्राजकं चैव रञ्जकालोचके तथा।

साधकश्चेति पञ्चैव पित्तानामान्यनुक्रमात्॥ (शा.पू.५/३२)

राग(रंजक), पंक्ति(पाचक), तेज(आलोचक), मेधा(साधक पित्त) और ऊष्मा को करने वाला पित्त पाँच प्रकार से विभक्त होकर अग्नि का कार्य करके शरीर का अनुग्रह करता है।

 

·      कफ़दोषः

"शीर्यते तत् शरीरम्" अनया उक्त्या शरीरस्य प्रतिक्षणं क्षरणं जायमानं भवति। तथापि मृत्युपर्यन्तं शरीरं रक्षितं भवति, कारणं क्षरणेन सह शरीरस्य रक्षणस्य कार्यमपि सातत्येन चलति। शरीरस्य एतत् व्यवस्थापनं त्रिभ्यः दोषेभ्यः कफदोषद्वारा भवति।

व्युत्पत्ति:

"केन जलेन फलति इति कफः"। (सु.सू. २१/५)

कफशब्दे '' इत्यस्य अर्थः 'जलम्' एवं '' इत्यस्य अर्थः 'फलम्' इति भवति। तात्पर्यं वर्तते यद् यस्मिन् पदार्थे पार्थिवानां तत्त्वानां, विशेषतः जलीयतत्त्वानां च प्रभावेण नैकान् परिणामान् उत्पादयितुं सामर्थ्यं भवति सः कफः कथ्यते। कफस्य नामनि ये श्लेष्मा-बलासे स्तः।

कफस्य कार्यम्

श्लेष्मा स्थिरत्वस्निग्धत्वसन्धिबन्धक्षमादिभिः। (अ.ह.सू-११/३)

शरीरस्थ: कफ:

शरीरस्थफफ: सदैव स्थिरतां, स्निग्धतां, सन्धिबंधनं, क्षमादीनि कर्माणि करोति। सन्धिसंश्लेषणस्नेहरोपणपूरणबलस्थैर्यकृच्छलेष्मा पञ्चधा प्रविभक्तं उदककर्मणामनुऽग्रहं करोति।

कफस्य कार्याणि पञ्चधा विभक्तानि।

· कफ: देहे सन्धिभ्यः स्निग्धतां प्रददाति।

· आहारशरीरयो: स्नेहनम्।

· व्रणादीनाम् आरोपणम्।

· देहस्य रिक्तस्थानानि पूरयति।

· स्थिरताया: बलस्य च रक्षणम्।

अनया रीत्या पञ्चधा विभक्तः भूत्वा, उदककर्माणि च कृत्वा दोषोऽयं शरीराय (लाभः) अनुग्रहं ददाति।

·      षड्रसाः

आयुर्वेदे षड्रसाः भवन्ति । एते मधुरः कटुः अम्लः तिक्तः कषायः लवणः इति।

तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः ।

तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥ (अमरकोशः १. ५. ३३४)

-